(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

आश्वमेधिकपर्व


॥ श्रीः ॥
14.21. अध्यायः 021
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनार्जुनंप्रति भूतप्राणादिसृष्ट्यादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text

वासुदेव उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
दंपत्योः पार्थ संवादो योऽभकवद्भरतर्षभ॥ 14-21-1(92999)
ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम्।
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्॥ 14-21-2(93000)
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता।
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम्॥ 14-21-3(93001)
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम्।
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम्॥ 14-21-4(93002)
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव।
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे॥ 14-21-5(93003)
ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते।
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः॥ 14-21-6(93004)
मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः।
नैष्कर्म्य न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते॥ 14-21-7(93005)
कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम्।
जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते॥ 14-21-8(93006)
रक्षोभिर्वध्यमानेषु दृश्यश्राव्येषु कर्मसु।
आत्मस्थमात्मना तेन दृष्टमायतनं मया॥ 14-21-9(93007)
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना।
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्॥ 14-21-10(93008)
यत्रि ब्रह्मादयो युक्तास्तदक्षरमुपासते।
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः॥ 14-21-11(93009)
घ्राणेन न तदाघ्रेयं नास्वाद्यं चैव जिह्वया।
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते॥ 14-21-12(93010)
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम्।
अगन्धमरसस्पर्शमरूपं शब्दवर्जितम्।
यतः प्रवर्तते तन्त्रं यत्र चैतत्प्रतिष्ठितम्॥ 14-21-13(93011)
प्राणोऽपानः समानश्च व्यानश्चोदान एव च।
तत एव प्रवर्न्तते तदेव प्रविशन्ति च॥ 14-21-14(93012)
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः।
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च॥ 14-21-15(93013)
अपनाप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति।
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः॥ 14-21-16(93014)
प्राणोनोपहते यत्तु तमुदानं प्रचक्षते।
तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः॥ 14-21-17(93015)
तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम्।
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा॥ 14-21-18(93016)
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः॥ 14-21-19(93017)
घ्रेयं दृश्यं च पेयं च स्पृश्यं श्राव्यं तथैव च।
मन्तव्यमवबोद्धव्यं ताः सप्त समिधो मताः॥ 14-21-20(93018)
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः।
मन्ता बोद्धा च स्प्तैते भवन्ति परमर्त्विजः॥ 14-21-21(93019)
घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च।
मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा॥ 14-21-22(93020)
हवींष्याग्निषु होतारः सप्तधा सप्तसप्तसु।
सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु॥ 14-21-23(93021)
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः॥ 14-21-24(93022)
हविर्भूतगुणाः सर्वे प्रविशन्त्यग्नियं मुखम्।
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु॥ 14-21-25(93023)
तत्रैव च निरुध्यन्ते प्रलये भूतभावने।
ततः संजायते गन्धस्ततः संजायते रसः॥ 14-21-26(93024)
ततः संजायते रूपं ततः स्पर्शोऽभिजायते।
ततः संजायते शब्दः संशयस्तत्र जायते।
ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः॥ 14-21-27(93025)
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः।
पूर्णाहुतिभिरापूर्णास्ते पूर्यन्ते हि तेजसा॥ ॥ 14-21-28(93026)

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः॥ 21 ॥

Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-21-3 कर्म अग्निहोत्रादिकं न्यस्तं चेन तम्। कीनाशं कर्कशं मयि निरनुक्रोशम्। अविचक्षणं मम अनन्यगतिकत्वमजानन्तम्॥ 7-21-7 मौख्यमित्युपलभ्यते इति थ.द.पाठः॥ 7-21-17 तत्परं ब्रह्मवादिन इति द.पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.